महर्षि नारद जी द्वारा लिखित जीवन के सभी संकटों का नाश करने वाला श्री गणेशस्त्रोतम्


।। श्री गणेशस्त्रोतम् ।।

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् ।
भक्तावासं स्मरेन्नित्यं आयु: कामार्थसिद्धये ।।

प्रथमं वक्रतुंण्डं च एकदन्तं द्वितीयकम् ।
तृतीयं कृष्णापिंगाक्षं गजवक्त्रं चतुर्थकम् ।।

लंबोदरं पंचमं च षष्ठं विकटमेव च ।
सप्तमं विध्नराजेन्द्रं धूम्रवर्णं तथाष्टमम् ।।

नवमं भालचन्द्रं च दशमं तु विनायकम् ।
एकादशं गणपतिं द्वादशं तु गजाननम् ।।

द्वादशैतानि नामानि त्रिसंध्यं य: पठेन्नर: ।
न च विध्नभयं तस्य सर्वसिद्धकरं परम् ।।

विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम् ।।

जपेद् गणपतिस्तोत्रं षड्भिर्मासै: फलम् लभेत् ।
संवत्सरेण सिद्धिंच लभते नात्र संशय: ।। 

अष्टभ्यो ब्राह्मणेभ्यश्च  लिखित्वा य: समर्पयेत् । 
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादत: ।। 

।। इति श्री नारदपुराणे संकटनाशनम् गणपतिस्तोत्रं ।।

Comments

Popular posts from this blog

हे प्रभो, इस दास की इतनी विनय सुन लिजिये...

जानिए- अठारह पुराणों के नाम और उनका संक्षिप्त परिचय

आगरा में बांग्लादेशी हिंदुओं पर हमले के विरोध में विशाल प्रदर्शन