महर्षि नारद जी द्वारा लिखित जीवन के सभी संकटों का नाश करने वाला श्री गणेशस्त्रोतम्

।। श्री गणेशस्त्रोतम् ।। प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् । भक्तावासं स्मरेन्नित्यं आयु: कामार्थसिद्धये ।। प्रथमं वक्रतुंण्डं च एकदन्तं द्वितीयकम् । तृतीयं कृष्णापिंगाक्षं गजवक्त्रं चतुर्थकम् ।। लंबोदरं पंचमं च षष्ठं विकटमेव च । सप्तमं विध्नराजेन्द्रं धूम्रवर्णं तथाष्टमम् ।। नवमं भालचन्द्रं च दशमं तु विनायकम् । एकादशं गणपतिं द्वादशं तु गजाननम् ।। द्वादशैतानि नामानि त्रिसंध्यं य: पठेन्नर: । न च विध्नभयं तस्य सर्वसिद्धकरं परम् ।। विद्यार्थी लभते विद्यां धनार्थी लभते धनम् । पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम् ।। जपेद् गणपतिस्तोत्रं षड्भिर्मासै: फलम् लभेत् । संवत्सरेण सिद्धिंच लभते नात्र संशय: ।। अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा य: समर्पयेत् । तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादत: ।। ।। इति श्री नारदपुराणे संकटनाशनम् गणपतिस्तोत्रं ।।